वांछित मन्त्र चुनें

तं नो॒ द्यावा॑पृथि॒वी तन्न॒ आप॒ इन्द्र॑: शृण्वन्तु म॒रुतो॒ हवं॒ वच॑: । मा शूने॑ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव॑न्तो जर॒णाम॑शीमहि ॥

अंग्रेज़ी लिप्यंतरण

taṁ no dyāvāpṛthivī tan na āpa indraḥ śṛṇvantu maruto havaṁ vacaḥ | mā śūne bhūma sūryasya saṁdṛśi bhadraṁ jīvanto jaraṇām aśīmahi ||

पद पाठ

तम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । तत् । नः॒ । आपः॑ । इन्द्रः॑ । शृ॒ण्व॒न्तु॒ । म॒रुतः॑ । हव॑म् । वचः॑ । मा । शूने॑ । भू॒म॒ । सूर्य॑स्य । स॒म्ऽदृशि॑ । भ॒द्रम् । जीव॑न्तः । ज॒र॒णाम् । अ॒शी॒म॒हि॒ ॥ १०.३७.६

ऋग्वेद » मण्डल:10» सूक्त:37» मन्त्र:6 | अष्टक:7» अध्याय:8» वर्ग:12» मन्त्र:6 | मण्डल:10» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नः-तं हवम्) हमारे उस अभिप्राय को (द्यावापृथिवी) माता-पिता या माता-पिता के सदृश परमात्मा (नः-तत्-वचः) हमारे उस वचन-प्रार्थनावचन को (आपः) आप्तजन या सर्वत्र व्यापक परमात्मा (इन्द्रः) ऐश्वर्यवान् राजा या परमात्मा (मरुतः) ऋत्विक् लोग या जीवनप्रद परमात्मा स्वीकार करें या स्वीकार कर (शूने मा भूम) शैथिल्य-आलस्य में न होवें-न रहें (सूर्यस्य संदृशि) सर्वप्रकाशक परमात्मा के ज्ञानदर्शन-वेदोपदेश में (जीवन्तः-भद्रं जरणाम्-अशीमहि) जीवन धारण करते हुए कल्याण और जरावस्था-देवों की आयु को हम प्राप्त करें ॥६॥
भावार्थभाषाः - परमात्मा के वेदज्ञान के अनुसार उसकी प्रार्थना करते हुए, कभी आलस्य में न रहकर जीवन बिताते हुए, सम्पूर्ण आयु को प्राप्त कर सकते हैं। तथा माता-पिता के आदेश में रहकर और विद्वानों से श्रवण करते हुए अपना जीवन ऊँचा व पूर्णायुवाला बना सकते हैं ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (नः तं हवम्) अस्माकं तमभिप्रायम् (द्यावापृथिवी) मातापितरौ “द्यौर्मे पिता……पृथिवी महीयम्” [ऋ० १।१६४।३३] यद्वा मातापितृभूतः परमात्मा (नः तत्-वचः) अस्माकं तद्वचनं  प्रार्थनावचनम् (आपः) आप्तजनाः “मनुष्या वा आपश्चन्द्राः” [श० ७।३।१।२०] सर्वत्राप्तो व्यापकः परमात्मा ‘ता आपः स प्रजापतिः” [यजु० ३२।१] (इन्द्रः) ऐश्वर्यवान् राजा परमात्मा वा (मरुतः) ऋत्विजः ‘मरुतः-ऋत्विङ्नाम” [निघ० ३।१८] यद्वा जीवनप्रदः परमात्मा (शृण्वन्तु) स्वीकुर्वन्तु स्वीकरोतु वा (शूने मा भूम) शैथिल्ये-अलसत्वे न भवेम-तिष्ठेम (सूर्यस्य सदृशि) सर्वप्रकाशकस्य परमात्मनो ज्ञानदर्शने वेदोपदेशे (जीवन्तः-भद्रम् जरणाम्-अशीमहि) जीवनं धारयन्तः कल्याणं जरणाम्-जरां देवायुष्यं “जरा वै देवहितमायुः” [मै० १।७।५] वयं प्राप्नुयाम ॥६॥